Go To Mantra

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः । भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑व॒: परा॑जितासो॒ अप॒ नि ल॑यन्ताम् ॥

English Transliteration

saṁsṛṣṭaṁ dhanam ubhayaṁ samākṛtam asmabhyaṁ dattāṁ varuṇaś ca manyuḥ | bhiyaṁ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām ||

Pad Path

सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः । भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥ १०.८४.७

Rigveda » Mandal:10» Sukta:84» Mantra:7 | Ashtak:8» Adhyay:3» Varga:19» Mantra:7 | Mandal:10» Anuvak:6» Mantra:7


Reads times

BRAHMAMUNI

Word-Meaning: - (वरुणः-च मन्युः) वरणीय परमात्मा तथा मानने योग्य-अनुभव करने योग्य आत्मप्रभाववाला या स्वाभिमानवाला सेनानायक (अस्मभ्यम्) हमारे लिये (उभयम्) दोनों प्रकारवाला सांसारिक और पारलौकिक (संसृष्टम्) संयुक्त (समाकृतम्) सम्पुष्ट (धनं दत्ताम्) धन देवे (शत्रवः-भियम्) शत्रुजन भय को (हृदयेषु दधानाः) हृदयों में धारण करते हुए (पराजितासः) पराजित होते हुए (अप निलयन्ताम्) दूर विलीन हो जावे ॥७॥
Connotation: - रजा को परमात्मा का आश्रय तथा सेनानायक का आश्रय लेने से सांसारिक और पारलौकिक ऐश्वर्य मिलता है, दोनों प्रकार के शत्रु भीतर बाहिर के दूर नष्ट हो जावेंगे ॥७॥
Reads times

BRAHMAMUNI

Word-Meaning: - (वरुणः-च मन्युः) वरणीयं परमात्मा तथा माननीयोऽनुभवनीय आत्मप्रभाववान् सेनानायकः (अस्मभ्यम्) अस्मदर्थं (उभयं संसृष्टम्) द्विप्रकारकं सांसारिकं पारलौकिकं संयुक्तं (समाकृतं धनं दत्ताम्) सम्पुष्टं धनं प्रयच्छतां (शत्रवः-भियं हृदयेषु दधानाः) शत्रवो हृदयेषु भयं धारयन्तः (पराजितासः) पराजिताः सन्तः (अप निलयन्ताम्) दूरं विलीना भवन्तु ॥७॥